(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi

॥ श्रीः ॥
3.288. अध्यायः 288
Mahabharata - Vana Parva - Chapter Topics
लक्ष्मणेन कुम्भकर्णवधः ॥ 1 ॥ हनुमन्नीलाक्ष्यां वज्रवेगप्रमाथिनोर्वधः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-288-0x(2713)(27025)
ततो निर्याय स्वपुरात्कुम्भकर्णः सहानुगः।
अपश्यत्कपिसैन्यं रतज्जितकाश्यग्रतः स्थितम् ॥ 3-288-1(27026)
स वीक्षमाणस्तत्सैन्यं रामदर्शनकाङ्क्षया।
अपश्यच्चापि सौमित्रिं धनुष्पाणिं व्यवस्थितम् ॥ 3-288-2(27027)
तमभ्येत्याशु हरयः परिवब्रुः समन्ततः।
`शैलवृक्षायुधा नादानमुञ्चन्भीषणास्ततः' ॥ 3-288-3(27028)
अभ्यघ्नंश्च महाकायैर्बहुभिर्जगतीरुहैः।
करजैरतुदंश्चान्ये विहाय भयमुत्तमम् ॥ 3-288-4(27029)
बहुधा युध्यमानास्ते युद्धमार्गैः प्लवंगमाः।
नानाप्रहरणैर्भीमै राक्षसेन्द्रमताडयन् ॥ 3-288-5(27030)
स ताड्यमानः प्रहसन्भक्षयामास वानरान्।
बलं चण्डबलाख्यं च वज्रबाहुं च वानरम् ॥ 3-288-6(27031)
तद्दृष्ट्वा व्यथनं कर्म कुम्भकर्णस्य रक्षसः।
उदक्रोशन्परित्रस्तास्तारप्रभृतयस्तदा ॥ 3-288-7(27032)
तानुच्चैः क्रोशतः सैन्याञ्श्रुत्वा स हरियूथपान्।
अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥ 3-288-8(27033)
ततो निपत्य वेगेन कुम्भकर्णं महामना।
सालेन जघ्निवान्मूर्ध्निं बलेन कपिकुञ्जरः ॥ 3-288-9(27034)
स महात्मा महावेगः कुम्भकर्णस् मूर्धनि।
बिभेद सालं सुग्रीवो न चैवाव्यथयत्कपिः ॥ 3-288-10(27035)
ततो विनद्यसहसा सालस्पर्शविबोधितः।
दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥ 3-288-11(27036)
ह्रियमाणं तु सुग्रीवं कुम्भकर्णेन रक्षसा।
अवेक्ष्याभ्यद्रवद्वीरः सौमित्रिर्मित्रनन्दनः ॥ 3-288-12(27037)
सोऽभिपत्य महर्वेगं रुक्मपुङ्खं महाशरम्।
प्राहिणोत्कुम्भकर्णाय लक्ष्मणः परवीरहा ॥ 3-288-13(27038)
स तस्य देहावरणं भित्त्वा देहं च सायकः।
जगाम दारयन्भूमिं रुधिरेण समुक्षितः ॥ 3-288-14(27039)
तथा स भिन्नहृदयः समुत्सृज्य कपीश्वरम्।
`वेगेन महताऽऽविष्टस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 3-288-15(27040)
कुम्भकर्णो महेष्वासः प्रगृहीतशिलायुधः।
अभिदुद्राव सौमित्रिमुद्यम्य महतीं शिलाम् ॥ 3-288-16(27041)
तस्याभिपततस्तूर्णं क्षुराभ्यामुच्छितौ करौ।
चिच्छेद निशिताग्राभ्यां स बभूव चतुर्भुजः ॥ 3-288-17(27042)
तानप्यस् भुजान्सर्वान्प्रगृहीतशिलायुधान्।
क्षुरैश्चिच्छेदलघ्वस्त्रं सौमित्रिः प्रतिदर्शयन् ॥ 3-288-18(27043)
स बभूवातिकायश्च बहुपादशिरोभुजः।
तं ब्रह्मास्त्रेण सौमित्रिर्ददाराद्रिचयोपमम् ॥ 3-288-19(27044)
स पपात महावीर्यो दिव्यास्त्राभिहतो रणे।
महाशनिविनिर्दग्धः पादपोऽङ्कुरवानिव ॥ 3-288-20(27045)
तं दृष्ट्वा वृत्रसंकाशं कुम्भकर्णं तरस्विनम्।
गतासुं पतितं भूमौ राक्षसाः प्राद्रवन्भयात् ॥ 3-288-21(27046)
तथातान्द्रवतो योधान्दृष्ट्वा तौ दूषणानुजौ।
अवस्थाप्याथ सौमित्रिं संक्रुद्धावभ्यधावताम् ॥ 3-288-22(27047)
तावाद्रवन्तौ संक्रुद्धौ वज्रवेगप्रमाथिनौ।
अभिजग्राह सौमित्रिर्विनद्योभौ पतत्रिभिः ॥ 3-288-23(27048)
ततः सुतुमुलं युद्धमभवद्रोमहर्षणम्।
दूषणानुजयोः पार्थ लक्ष्मणस् च धीमतः ॥ 3-288-24(27049)
महता शरवर्षेण राक्षसौ सोऽभ्यवर्पत।
तं चापिवीरौ संक्रुद्धावुभौ तौ समवर्षताम् ॥ 3-288-25(27050)
मुहूर्तमेवमभवद्वज्रवेगप्रमाथिनोः।
सौमित्रेश्च महाबाहोः संप्रहारः सुदारुणः ॥ 3-288-26(27051)
अथाद्रिशृङ्गमादाय हनुमान्मारुतात्मजः।
अभिद्रुत्याददे प्राणान्वज्रवेगस्य रक्षसः ॥ 3-288-27(27052)
नीलश्च महता ग्राव्णा दूपणावरजं हरिः।
प्रमाथिनमभिद्रुत्य प्रममाथ महाबलः ॥ 3-288-28(27053)
ततः प्रावर्तत पुनः संग्रामः कटुकोदयः।
रामरावणसैन्यानामन्योन्यमभिधावताम् ॥ 3-288-29(27054)
शतसो नैर्ऋतान्वन्या जघ्नुर्वन्यांश्च नैर्ऋताः।
नैर्ऋतास्तत्रवध्यन्ते प्रायेण न तु वानराः ॥ 3-288-30(27055)

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि अष्टाशीत्यधिकद्विशततमोऽध्यायः ॥ 288 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-288-1 जितकाशि दृढमुष्टि। काशिर्मुष्टिः प्रकाशनादिति यास्क ॥ 3-288-30 वन्या वनेचरा वानराः ॥

Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.